सूत्रम्
ऋदुपधाच्चाकॢपिचृतेः॥ ३।१।११०
काशिका-वृत्तिः
ऋदुपधाच् च अक्ल्̥पिचृतेः ३।१।११०
ऋकारौपधाच् च धातोः क्यप् प्रत्ययो भवति क्ल्̥पिचृती वर्जयित्वा। वृतु वृत्यम्। वृधु वृध्यम् अक्ल्̥पिचृतेः इति किम्? कल्प्यम्। चर्त्यम्। तपरकरणम् किम्? कृ̄त संशब्दने। ण्यदेव भवति कीर्त्यम्। पाणौ सृजेर् ण्यद् वक्तव्यः। पाणिसर्ग्या रज्जुः। समवपूर्वाच् च। समवसर्ग्या।
न्यासः
ऋदुपधाच्चाक्लृपिचृतेः। , ३।१।११०
"क्लृपिचृतौ वर्जयित्वा" इति। "कृपू सामर्थ्ये" (धा।पा।७६२), "चृती {हिंसाश्रन्थनयोः" धा।पा।} हिंसाग्रन्थनयोः" (धा।पा।१३२४) इत्येतौ त्यक्त्वा। कृपेर्लत्वस्यासिद्धत्वादृदुपधत्वम्। "कल्प्यम्" इति। लत्वस्यामिद्ध्तवादृकारस्यैवाकारो गुणः। "ण्यदेव भवति-- कीर्त्त्यम्" इति। आर्धधातुकविवक्षायां चुरादिणिचः "णेरनिटि"
६।४।५१ इति णिलोपे कृ-ते हलन्ततोपजायत इति कृत्वा "ऋहलोण्र्यत्"
३।१।१२४ इति ण्यदेव भवति। "हलि च"
८।२।७७ इति दीर्घः। ननु च "अचो यत्"
३।१।९७ इत्यत्राज्ग्रहणस्य प्रयोजनमुक्तम्-- अजन्तभूतपूर्वादपि यथा स्यात्, दित्स्यम्, धित्स्यमिति;
एवञ्चेहापि णिचि यतैव भवितव्यम्? एवं तह्र्रनित्यण्यन्ताश्चुरादय इत्यण्यन्तादेवात्र ण्यद्भवतीत्यदोषः।
"वक्तव्यः" इति। व्याख्येय इत्यर्थः। व्याख्यानं तु पूर्ववत्।
पाणिभ्यां रुआष्टव्या "पाणिसग्र्या रज्जुः"। "उपपदमतिङ्ट
२।२।१९ इति समासः।
"समवपूर्वाच्च" इति। सृजेण्र्यद्भवतीति सम्बध्यते। चकारः समुच्चये।
न केवलं पाणावुपपदे ण्यद्वक्तव्यः; अपि तु समवपूर्वाच्च॥
बाल-मनोरमा
ऋदुपधाच्चाऽक्लृपिचृतेः ६८०, ३।१।११०
ऋदुपधाच्चा। क्लृप्()चृती वर्जयित्वा ऋदुपधाद्धातोः क्यबित्यर्थः। ननु तपरकरममिह व्यर्थमित्यत आह-- अनित्यण्यन्ता इति। णिजन्तात्तु यदेवेति। "अचो य"दित्यनेनेति भावः।
तत्त्व-बोधिनी
ऋदुपधाच्चाऽक्लृपिचृतेः ५६४, ३।१।११०
क्लृपिचृत्योस्त्विति। कृपू सामर्थ्ये। चृती हिंसाग्रन्थनयोः। कल्प्यमिति। कृपेर्लत्वस्याऽसिद्धत्वात्, ऋलृवर्णयोः सावण्र्यविधानाच्च ऋदुपधत्वम्।